|
|
 |
 |
|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.74. अध्यायः 074
Mahabharata - Adi Parva - Chapter Topics
शुक्रवृषपर्वणोः संवादः॥ 1 ॥
शुक्रकोपशान्तये वृषपर्वनियोगात् शर्मिष्ठया देवयानीदास्याङ्गीकारः॥ 2 ॥
प्रसन्नया देवयान्या सह शुक्रस्य पुरप्रवेशनम्॥ 3 ॥
Mahabharata - Adi Parva - Chapter Text
वैशम्पायन उवाच। 1-74-0x(381)(3365)
ततः काव्यो भृगुश्रेष्ठः समन्युरुपगम्य ह।
वृषपर्वाणमासीनमित्युवाचाविचारयन्॥ 1-74-1(3366)
नाधर्मश्चरितो राजन्सद्यः फलति गौरिव।
शनैरावर्त्यमानो हि कर्तुर्मूलानि कृन्तति॥ 1-74-2(3367)
पुत्रेषु वा नप्तृषु वा न चेदात्मनि पश्यति।
फलत्येव ध्रुवं पायं गुरुभुक्तमिवोदरे॥ 1-74-3(3368)
`अधीयानं हितं राजन्क्षमावन्तं जितेन्द्रियम्।'
यदघातयथा विप्रं कचमाङ्गिरसं तदा।
अपापशीलं धर्मज्ञं शुश्रूषुं मद्गृहे रतम्॥ 1-74-4(3369)
`शर्मिष्ठया देवयानी क्रूरमुक्ता बहु प्रभो।
विप्रकृत्य च संरम्भात्कूपे क्षिप्ता मनस्विनी॥ 1-74-5(3370)
सा न कल्पेत वासाय तयाहं रहितः कथम्।
वसेयमिह तस्मात्ते त्यजामि विषयं नृप॥' 1-74-6(3371)
वधादनर्हतस्तस्य वधाच्च दुहितुर्मम।
वषपर्वन्निबोधेयं त्यक्ष्यामि त्वां सबान्धवम्।
स्थातुं त्वद्विषये राजन्न शक्ष्यामि त्वया सह॥ 1-74-7(3372)
`मा शोच वृषपर्वंस्त्वं मा क्रुध्यस्व विशांपते।
स्थातुं ते विषये राजन्न शक्ष्यामि तया विना।
अस्या गतिर्गतिर्मह्यं प्रियमस्याः प्रियं मम॥ 1-74-8(3373)
वृषपर्वोवाच। 1-74-9x(382)
यदि ब्रह्मन्घातयामि यदि वा क्रोशयाम्यहम्।
शर्मिष्ठया देवयानीं तेन गच्छाम्यसद्गतिम्॥ 1-74-9(3374)
शुक्र उवाच।' 1-74-10x(383)
अहो मामभिजानासि दैत्य मिथ्याप्रलापिनम्।
यथेममात्मनो दोषं न नियच्छस्पुपेक्षसे॥ 1-74-10(3375)
वृषपर्वोवाच। 1-74-11x(384)
नाधर्मं न मृषावादं त्वयि जानामि भार्गव।
त्वयि धर्मश्च सत्यं च तत्प्रसीदतु नो भवान्॥ 1-74-11(3376)
यद्यस्मानपहाय त्वमितो गच्छसि भार्गव।
समुद्रं संप्रवेक्ष्यामि पूर्वं मद्बान्धवैः सह॥ 1-74-12(3377)
पातालमथवा चाग्निं नान्यदस्ति परायणम्।
यद्येव देवान्गच्छेस्त्वं मां च त्यक्त्वा ग्रहाधिप।
सर्वत्यागं ततः कृत्वा प्रविशामि हुताशनम्'॥ 1-74-13(3378)
शुक्र उवाच। 1-74-14x(385)
समुद्रं प्रविशध्वं वा दिशो वा द्रवतासुराः।
दुहितुर्नाप्रियं सोहुं शक्तोऽहं दयिता हि मे॥ 1-74-14(3379)
प्रसाद्यतां देवयानी जीवितं यत्र मे स्थितम्।
योगक्षेमकरस्तेऽहमिन्द्रस्येव बृहस्पतिः॥ 1-74-15(3380)
वृषपर्वोवाच। 1-74-16x(386)
यत्किंचिदसुरेन्द्राणां विद्यते वसु भार्गव।
भुवि हस्तिगवाश्वं च तस्य त्वं मम चेश्चरः॥ 1-74-16(3381)
शुक्र उवाच। 1-74-17x(387)
यत्किंचिदस्ति द्रविणं दैत्येन्द्राणां महासुर।
तस्येश्वरोस्मि यद्येषा देवयानी प्रसाद्यताम्॥ 1-74-17(3382)
वैशम्पायन उवाच। 1-74-18x(388)
एवमुक्तस्तथेत्याह वृषपर्वा महाकविम्।
देवयान्यन्तिकं गत्वा तमर्थं प्राह भार्गवः॥ 1-74-18(3383)
देवयान्युवाच। 1-74-19x(389)
यदि त्वमीश्वरस्तात राज्ञो वित्तस्य भार्गव।
नाभिजानामि तत्तेऽहं राजा तु वदतु स्वयम्॥ 1-74-19(3384)
`वैशम्पायन उवाच। 1-74-20x(390)
शुक्रस्य वचनं श्रुत्वा वृषपर्वा सबान्धवः।
देवयानि प्रसीदेति पपात भुवि पादयोः॥ 1-74-20(3385)
वृषपर्वोवाच। 1-74-21x(391)
स्तुत्यो वन्द्यश्च सततं मया तातश्च ते शुभे।'
यं काममभिकामाऽसि देवयानि शुचिस्मिते।
तत्तेऽहं संप्रदास्यामि यदि वापि हि दुर्लभम्॥ 1-74-21(3386)
देवयान्युवाच। 1-74-22x(392)
दासीं कन्यासहस्रेण शर्मिष्ठामभिकामये।
अनु मां तत्र गच्छेत्सा यत्र दद्याच्च मे पिता॥ 1-74-22(3387)
वृषपर्वोवाच। 1-74-23x(393)
उत्तिष्ठ त्वं गच्छ धात्रि शर्मिष्ठां शीघ्रमानय।
यं च कामयते कामं देवयानी करोतु तम्॥ 1-74-23(3388)
`त्यजेदेकं कुलस्यार्थे ग्रामार्थे च कुलं त्यजेत्।
ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत्'॥ 1-74-24(3389)
वैशम्पायन उवाच। 1-74-25x(394)
ततो धात्री तत्र गत्वा शर्मिष्ठां वाक्यमब्रवीत्।
उत्तिष्ठ भद्रे शर्मिष्ठे ज्ञातीनां सुखमावह॥ 1-74-25(3390)
त्यजति ब्राह्मणः शिष्यान्देवयान्या प्रचोदितः।
सायं कामयते कां स कार्योऽद्य त्वयाऽनघे॥ 1-74-26(3391)
शर्मिष्ठोवाच। 1-74-27x(395)
यं सा कामयते कां करवाण्यहमद्य तम्।
यद्येवमाह्वयेच्छुक्रो देवयानीकृते हि माम्।
मद्दोषान्मागमच्छुक्रो देवयानी च मत्कृते॥ 1-74-27(3392)
वैशम्पायन उवाच। 1-74-28x(396)
ततः कन्यासहस्रेण वृता शिबिकया तदा।
पितुर्नियोगात्त्वरिता निश्चक्राम पुरोत्तमात्॥ 1-74-28(3393)
शर्मिष्ठोवाच। 1-74-29x(397)
अहं दासीसहस्रेण दासी ते परिचारिका।
अनु त्वां तत्र यास्यामि यत्र दास्यति ते पिता॥ 1-74-29(3394)
देवयान्युवाच। 1-74-30x(398)
स्तुवतो दुहिताऽहं ते याचतः प्रतिगृह्णतः।
स्तूयमानस्य दुहिता कथं दासी भविष्यसि॥ 1-74-30(3395)
शर्मिष्ठोवाच। 1-74-31x(399)
येनकेनचिदार्तानां ज्ञातीनां सुखमावहेत्।
अतस्त्वामनुयास्यामि तत्र दास्यति ते पिता॥ 1-74-31(3396)
वैशम्पायन उवाच। 1-74-32x(400)
प्रतिश्रुते दासभावे दुहित्रा वृषपर्वणः।
देवयानी नृपश्रेष्ठ पितरं वाक्यमब्रवीत्॥ 1-74-32(3397)
देवयान्युवाच। 1-74-33x(401)
प्रविशामि पुरं तात तुष्टाऽस्मि द्विजसत्तम।
अमोघं तव विज्ञानमस्ति विद्याबलं च ते॥ 1-74-33(3398)
वैशम्पायन उवाच। 1-74-34x(402)
एवमुक्तो दुहित्रा स द्विजश्रेष्ठो महायशाः।
प्रविवेश पुरं हृष्टः पूजितः सर्वदानैवः॥ ॥ 1-74-34(3399)
इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि चतुःसप्ततितमोऽध्यायः॥ 74 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|